|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.40. अध्यायः 040
Mahabharata - Vana Parva - Chapter Topics
महादेवेन पार्थाय स्वग्रस्तगाण्डीवादिप्रत्यर्पणपूर्वकं पाशुपतास्त्रप्रदानम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
3-40-0(17344)
देवदेव उवाच। 3-40-0x(1878)
नरस्त्वं पूर्वदेहे वै नारायणसहायवान्।
बदर्यां तप्तवानुग्रं तपो वर्षायुतान्बहून् ॥ 3-40-1(17345)
त्वयि वा परमं तेजो विष्णौ वा पुरुषोत्तमे।
युवाभ्यां पुरुषाग्र्याभ्यां तेजसा धार्यते जगत् ॥ 3-40-2(17346)
शक्राभिषेके सुमहद्धनुर्जलदनिःस्वनम्।
प्रगृह्य दानवाः शस्तास्त्वया कृष्णेन च प्रभो ॥ 3-40-3(17347)
तदेतदेव गाण्डीवं तव पार्थ करोचितम्।
भायामास्थाय तद्ग्रस्तं मया पुरुषसत्तम ॥ 3-40-4(17348)
तूणौ चाप्यक्षयौ भूयस्तव पार्थ करोचितौ।
भविष्यति शरीरं च नीरुजं कुरुनन्दन ॥ 3-40-5(17349)
प्रीतिमानस्मि वै पार्थ भवान्सत्यपराक्रमः।
गृहाण वरमस्मत्तः काङ्क्षितं यन्नरर्षभ ॥ 3-40-6(17350)
न त्वया सदृशः कश्चित्पुमान्मर्त्येषु भारत।
दिवि वा वर्तते त्रं त्वत्प्रधानमरिंदम ॥ 3-40-7(17351)
अर्जुन उवाच। 3-40-8x(1879)
वरं ददासि चेन्मह्यं कामं प्रीत्या वृषध्वज।
कामये दिव्यामस्त्रं तद्धोरं पाशुपतं प्रभो ॥ 3-40-8(17352)
यत्तद्ब्रह्मशिरो नाम रौद्रं भीमपराक्रमम्।
युगान्ते दारुणे प्राप्ते कृत्स्नं संहरते जगत् ॥ 3-40-9(17353)
[कर्णभीष्मकृपद्रोणैर्भविता तु महाहवः।
त्वत्प्रसादान्महादेव जयेयं तान्यथा युधि ॥] 3-40-10(17354)
जयेयं येन संग्रामे दानवान्राक्षसांस्तथा।
राज्ञश्चैव पिशाचांश्च गन्धर्वानथपन्नगान् ॥ 3-40-11(17355)
यस्मिञ्शूलसहस्राणि गदाश्चोग्रप्रदर्शनाः।
शराश्चाशीविषाकाराः संभवन्त्यनुमन्त्रिताः ॥ 3-40-12(17356)
युध्येयं येन भीष्मेण द्रोणेन च कृपेण च।
सूतपुत्रेण च रणे नित्यं कटुकभाषिणा ॥ 3-40-13(17357)
एष मे प्रथमः कामो भगवन्भगनेत्रहन्।
त्वत्प्रसादाद्विनिर्बृत्तः समर्थः स्यामहं यथा ॥ 3-40-14(17358)
भव उवाच। a30-11-15x(1880)
ददामि तेऽस्त्रं दयितमहं पाशुपतं विभो।
समर्थो धारणे मोक्षे संहारेऽपि च पाण्डव ॥ 3-40-15(17359)
न तद्वेद महेन्द्रोपि न यमो न च यक्षराट्।
वरुणोप्यथवा वायुः कुतो वेत्स्यन्ति मानवाः ॥ 3-40-16(17360)
न त्वया सहसा पार्थ मोक्तव्यं पुरुषे क्वचित्।
जगद्विनिर्दहेत्सर्वमल्पतेजसि पातितम् ॥ 3-40-17(17361)
अबध्यो नाम नास्त्यस्य त्रैलोक्ये सचराचरे।
मनसा चक्षुषा वाचा धनुषा च निपात्यते ॥ 3-40-18(17362)
वैशम्पायन उवाच। 3-40-19x(1881)
तच्छ्रुत्वा त्वरितः पार्थः शुचिर्भूत्वा समाहितः।
उपसंगृह्य विश्वेशमधीष्वेत्यथ सोऽब्रवीत् ॥ 3-40-19(17363)
ततस्त्वध्यापयामास सरहस्यनिवर्तनम्।
तदस्त्रं पाण्डवश्रेष्ठं मूर्तिमन्तमिवान्तकम् ॥ 3-40-20(17364)
उपतस्थे महात्मानं यथा त्र्यक्षमुमापतिम्।
प्रतिजग्राह तच्चापि प्रीतिमानर्जुनस्तदा ॥ 3-40-21(17365)
ततश्चचाल पृथिवी सपर्वतवनद्रुमा।
ससागरवनोद्देशा सग्रामनगराकरा ॥ 3-40-22(17366)
शङ्खदुन्दुभिघोषाश्च भेरीणां च सहस्रशः।
तस्मिनमुहूर्ते संप्राप्ते निर्घातश्च महानभूत् ॥ 3-40-23(17367)
अथास्त्रं जाज्वलद्धोरं पाण्डवस्यामितौजसः।
मूर्तिमद्विष्ठितं पार्श्वे ददृशुर्देवदानवाः ॥ 3-40-24(17368)
स्पृष्टस्य त्र्यम्बकेणाथ फल्गुनस्यामितौजसः।
यत्किं गच्छेत्यनुज्ञातस्त्र्यम्बकेण तदाऽर्जुनः ॥ 3-40-25(17369)
स्वर्गं गच्छेत्यनुज्ञातस्त्र्यम्बकेण तदाऽर्जुनः।
प्रणम्य शिरसा राजन्प्राञ्जलिर्भवमैक्षत । 3-40-26(17370)
ततः प्रभुस्त्रिदिवनिवासिनां वसी
महामतिर्गिरिश उमापतिः शिवः।
धनुर्महद्दितिजपिशाचसूदनं
ददौ भवः पुरुषवराय गाण्डिवम् ॥ 3-40-27(17371)
ततः शुभं गिरिवरमीश्वरस्तदा
सहोमयाऽसिततटसानुकन्दरम्।
विहाय तं पतगमहर्षिसेवितं
जगाम स्वं पुरुषवरस्य पश्यतः ॥ 3-40-28(17372)
इति श्रीमन्महाभारते अरण्यपर्वणि कैरातपर्वणि चत्वारिंशोऽध्यायः ॥ 40 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-40-3 शस्ताः मारिताः ॥ 3-40-7 त्वत्प्रधानं त्वमेव श्रेष्ठो रयस्मिन् क्षत्रे ॥ 3-40-14 विनिर्वृत्तः विशेषेण कृतकृत्यः ॥ 3-40-15 संहारे निवर्तने ॥ 3-40-18 मनसा संकल्पमात्रेण निपात्यते शत्रुः धनुषेति बाणप्रयोगेण ॥ 3-40-19 अधीष्व अध्यापय ॥ 3-40-23 निर्घात उत्पातः ॥ 3-40-27 वशी वश इच्छा तद्वान्। तज्जयीत्यर्थः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|